पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

उनषष्टितमः पटलः . त्रिकूटया तु सम्पूज्य महात्रिपुरसुन्दरीम् ॥ श्रीविद्यां पूजयेद्देवि चिन्मयीं ब्रह्मरूपिणीम् ॥ ७५ ॥ तर्पणानि पुनर्दद्यात् गन्धपुष्पाक्षतैर्यजेत् । मानसैः प्रकटदेवीं पूजयेद्बहुभिः प्रिये ॥ ७६ ॥ मुद्राः सन्दर्शयेन्मन्त्री बन्धूककुसुमप्रभाः । नानालङ्कारसुभगास्त्रैलोक्यवशकारिणीः ॥ ७७ ॥ स्वस्वमुद्राकराः सर्वाः श्रीविद्यासम्मुखाः स्मरेत् । प्रतिचक्रेतु मुद्रास्तु क्रमाञ्चक्रेश्वरीं यजेत् ॥ ७८ ॥ त1तश्च पश्चान्मध्ये तु वाहपूजागतः प्रिये । त्रिपुरा स्फाटिकाभासा मुक्तारत्नविभूषिता ॥ ७९ ॥ पुस्तकं चाक्षमालां च कलशं पद्ममुत्तमम् । वि2भ्रती सिद्धये चिन्त्या महापापविनाशिनी ॥८॥ त्रिपुरेशीं पूर्वरूपां सुन्दरीं कुसुमप्रभाम् । सर्वालङ्कारसम्पन्नां पुस्तकं चाक्षमालिकाम् ॥ ८१ ॥ वराभयौ च दधतीं सामर्थ्यहसिताननाम् । अनया सदृशी देवी ध्येया त्रिपुरवासिनी ॥ ८२ ॥ आरक्तलोचना प्रान्ते महामदविधूर्णिता । त्रिपुराश्रीर्महेशानि पीनवृत्तघनस्तनी ॥ ८३ ॥ उद्यद्भास्वत्सहस्राभा दिव्यालङ्कारमण्डिता । १'ततश्चकस्य मध्ये तु ह्याद्यपूजागतः प्रिये' इति पा० । २ दधतीं चिन्तयेन्नित्यां महापापविनाशिनीम् इति पा० ।