पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणमूर्तिसंहिता। पुस्तकं जपमालाश्च वरदं चाभयं करैः ॥ ८४ ॥ दधती सकलानन्दा मालिनी कथ्यतेऽधु1ना। इन्द्रगोपप्रभा देवी पाशाङ्कुशकपालिनी ॥ ८५ ॥ महाभीतिहरा देवी साधकानां क्षणादियम् । सिद्धां च परमेशानीं ध्यायेद्वि2सविकासिनीम् ॥८६॥ सम्पत्प्रदा भैरवी च महासिद्धिप्रदायिनी । कमेण सिद्धिसहिताः प्रतिचक्राधिदेवताः ॥ ८७ ॥ अत्युपहरमेवेदं ज्ञात्वा चक्रं समर्चयेत् । पादुकां पूजयामीति नमस्कारस्तथा भवेत् ॥ ८८ ॥ स्वाहा होमे तर्पणे तु तर्पयामीति संस्मरेत् । अथ वा रश्मयः सर्वा देवीरुपेण चिन्तयेत् ॥ ८९॥ श्रीचक्रे परमेशानि स्वतन्त्रे स्वस्वसन्निभाः। गोपितव्यं त्वया भद्रे स्वयोनिरिव पार्वति ॥ ९ ॥ इति श्रीदक्षिणामूर्तिसहितायां विद्यायजनविधि- र्नामोनषष्टितमः पटलः ॥ ५९ ॥ १'पुनः इति पा०1 २"सिद्ध्याभ्यां' इति पा०।. ३'ध्यायेद्विषधिनाशिनीम्' इति पा० ।