पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्टितमः पटलः। १६३ अथ षष्टितमः पटलः। ईश्वर उवाच- नैवेद्यं षडूसोपेतं कामधेनुपवित्रितम् । दत्वा कर्पूरसहितं ताम्बूलं परशक्तये ॥ १ ॥ नित्यहोमं प्रकुर्वीत पूर्वोक्तविधिना प्रिये । यथाशक्ति जपं कुर्यात्स्तुतिं च परमेश्वरि ॥ २ ॥ आदिश्लोकद्वयेनापि नत्वा सौभाग्यदेवताम् । सुवर्णरौप्यकांस्यादिपात्रे वसुदलं लिखेत् ॥ ३ ॥ गन्धेन चरुकं मध्ये मुद्रां वा तत्र विन्य1सेत् । वसुपत्रेषु चाज्येन पूरितान्नव दीपकान् ॥ ४ ॥ भ्रामयेद्रवविद्याभिर्धृत्वा 2धृत्वा तु मस्तके । मूलेन वा स्मरेदन्ते सर्वविघ्नोपशान्तये ॥५॥ समस्तचकचक्रेशीयुते देवि नवात्मिके । आरार्तिकमिदं दिव्यं गृहाण मम सिद्धये ॥ ६ ॥ मण्डलं वामतः कुर्यात्साधको भूमिजानुमान् । वहत्पुटेन हस्ताभ्यां मण्डलोद्वारलक्षणम् ॥ ७ ॥ चतुरस्रे व्योमचक्रं मन्त्रेणानेन पूजयेत् । तारं च भुवनेशानी व्यापकादि च मण्डलम् ॥८॥ "वैन्यसेत" इति पा०। २"त्रिधाधृत्वा तु मस्तके" इति पा० ।