पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकषष्टितमः पटलः। तत्त्वत्रयेण संयोगातर्पयेत्स्वान्तवासिनीम् ॥ १८ ॥ प्रथमं ब्रह्मरूपत्वं द्वितीयं सर्वमन्त्रवित् । तृतीयमीशरूपत्वं विज्ञेयं मनुवित्तमैः॥ १९ ॥ किञ्चिदुल्लास्य मुद्राभिः पञ्चभिः परमेश्वरि । श्रीगुरोराज्ञया देवि स्वयं श्रीत्रिपुरा भवेत् ॥ २० ॥ अधोमुखानि सर्वाणि पात्राण्यग्नौ प्रतिष्ठयेत् । आकृष्य मन्त्रांस्तत्रस्थान् शेषिकाभ्यो ऽक्षतादिकम् २१ दत्वा तु परमेशानि सुखी भूयान्न संशयः । अनिर्वाच्यमविविज्ञेयमक्षरैः कथितं मया ॥ २२ ॥ जलाक्षरेण न्यायेन चन्द्रदीपेन च प्रिये । गोपितव्यं त्वया भद्रे जननीजारगर्भवत् ॥ २३ ॥ इतिश्रीदक्षिणामूर्तिसंहितायां बलियजनविधिर्नाम षष्टितमः पटलः॥ ६०॥ अथैकषष्टितमः पटलः। पार्वत्युवाच- होमादि सुचितं देव सम्यग् विस्तारितं नहि । साधकानां हिताय त्वं सिद्ध्यर्थं कथय प्रभो ॥१॥