पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। इन्द्राग्नियमनैऋत्य वरुणानिलसंज्ञकान् । कुवेरेशानलोकेशान भूविंवे च क्रमाद्यजेत् ॥ २७ ॥ ब्रह्मा विष्णुश्च लोकेशश्चोर्ध्वाधः क्रमतो यजेत् । अर्कलक्षं जपेन्मंन्त्रं तदशांशेन होमयेत् ॥ २८ ॥ पद्मैस्त्रिमधुमिश्रैस्तु पुरश्चारी ततो भवेत् । एवं संसिद्धमन्त्रस्तु सर्वसाम्राज्यदो भवेत् ॥ २९ ॥ इति श्रीदक्षिणामूर्तिसहितायां एकाक्षरलक्ष्मी- पूजाविधिः प्रथमः पटलः। अथ द्वितीयः पटलः। ईश्वरउवाच- अथ वक्ष्ये महेशानि लक्ष्मीहृदयमुत्तमम् । यस्य विज्ञानमात्रेण पलायन्ते महापदः ॥ १॥ प्रणवं पूर्वमुच्चार्य हरेमात्मकमुच्चरेत् । श्रीपुटं चाथ कमले कमलालये प्रसीद च ॥ २ ॥ लायेमध्यगतां भूमिं रुद्रस्थाने तु योजयेत् । प्रसीद पूर्वबीजानि सम्पुटत्वेन योजयेत् ॥ ३ ॥ महालक्ष्मीहृदंतोयमष्टाविंशतिवर्णवान् । दक्षः प्रजापतिश्चास्य ऋषिश्छन्दस्तथैव च ॥४॥