पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकषष्टितमः पटलः। १६७ मानसोच्चारणं देवि जपकोटिफलप्रदम् ॥ ११ ॥ उपांशूच्चारणाद्देवि वाचिकं शतधा भवेत् । वाचिकं तु स्वमात्रं स्याच्छ्रीगुरोराज्ञया प्रिये ॥१२॥ तदशांशेन होमः स्यात्कुसुमैर्ब्रह्मवृक्षजैः । कुसुम्भपुष्पैर्जुहुयान्मधुत्रि1तयसंस्कृतैः ॥ १३ ॥ सिद्धा भवति विधेयमविद्यानाशिनी सताम् । योनिकुण्डे भगाकारे वर्तुले वाऽर्द्धचन्द्रके ॥ १४ ॥ नवत्रिकोणचके वा चतुरस्रे ऽथ 2भास्वरे । वाक्पतिर्योनिकुण्डे तु भगे चाकर्षणं भवेत् ॥ १५ ॥ वर्तुले श्रीपदं देवि शश्यर्द्धे तु त्रयं भवेत् । नवकोणे तु महती खेचरीसिद्धिभाग्भवेत् ॥ १६ ॥ चतरस्र तु सकलं शुभजातं भवेत्सदा । शान्तिकं पौष्टिकं लक्ष्मीरारोग्यं च सुखादिकम् ॥१७॥ पद्माङ्के दशसिद्धिस्तु साधयेन्नात्र संशयः । मल्लिकामालतीभिश्च त्रिमध्वक्तैर्भुवः पतिः ॥ १८ ॥ करवीरजपापुष्पैः सघृतैर्भुवनत्रये । योषिवश्यं ततो देवि कर्पूरं कुङ्कुमं मदम् ॥ १९ ॥ मृगस्य मिश्रितं कृत्वा कामसौभाग्यवान् भवेत् । (१)"मधुरत्रितयप्लुतैः" इतिपाठान्तरम् । (२) "चतुरस्रे ऽय वा प्रिये" इतिपाठान्तरम् ।