पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

१६९ एकषष्टितमः पटलः । पूजनाद्यजनाद्वाऽपि मिश्रैर्वा मिश्रितैरपि ॥ ३० ॥ सर्वसौभाग्यमाप्नोति बुद्ध्या वाक्पतिरुच्यते । मुचकुन्दैबिल्वपत्रैः फलैरसितनीरजैः ॥ ३१ ॥ तगरै राजचम्पैश्च सिद्धयोऽष्टौ भवन्ति हि । नारिकेलैश्च खर्जूरैर्द्राक्षाभिश्चूतसत्फलैः ॥ ३२ ॥ मनसा चिन्तिं कार्यं साधकस्य हि होमतः । पूजनेन च होमेन श्रीविद्यां परितोषयेत् ॥ ३३ ॥ चरुं विकीर्यं सर्वत्र कुमारीतो1षणादिभिः । पूर्वोक्तबलिदानेन गुरुं सन्तोष्य च क्रमात् ॥ ३४॥ सुवासिनीश्च सम्पूज्य दद्याद्भूरि2 धनं सताम् । समग्रं कुसुमं होमे कूष्माण्डं बहुधा हुनेत् ॥ ३५ ॥ नारिकेलान्तरजलैः सकलैस्तु मनःप्रियैः समग्रेणैव चूतस्य फलेन बदरं तथा ॥ ३६ ॥ पनसैः फलगर्भस्थैर्मुण्डैर्म3धुयुतैर्हुनेत् । जम्बूफलं समग्रं स्याद् द्राक्षां चैव तथा हुनेत् ॥ ३७॥ रम्भाफलं मनोभागं लघु चेत्खण्डितं न हि । फलं लधु समग्रं स्यात्कस्तुरी कुङ्कुमं शशी ॥ ३८ ॥ 1 १ 'पूजनादिभिः। इति पा० । २'भूरिभरं सताम्' इति पा० । ३ र्'गरैबीजोज्झितैर्हुनेत्' इति पा० ।