पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७० दक्षिणामूर्तिसंहिता। गुञ्जापत्र हुनेद्देवि तिलराजीशतं हुनेत् । तथैव लवणं लाजा मुष्टिमात्रं हुनेद् बुधः ॥ ३९ ॥ अन्नं तु ग्रासमात्रं हि पक्वान्नैश्च तथा हुनेत्1 । मू2लं तु क्रमुकार्द्धेन श्रीखण्डं क्रमुकाकृति ॥ ४० ॥ तथा गुडं हुनेदाज्यं मनःसन्तोषकारिमिः । तच्चतुर्गुणभेदेन दधिदुग्धैर्डनेत्सदा ॥ ४१ ॥ सर्वासामाहुतीनां तु मानं देवि मनःप्रियम् । कुण्डस्य पूजनं वक्ष्ये महाविघ्नविनाशनम् ॥ ४२ ॥ चतुर्विशतिसङ्ख्याभिरङ्गुलीभिः सुविस्तृतम् । रवातं च रचयेत्कुण्डं सर्वत्र सुमनोहरम् ॥ ४३ ॥ चतुरस्रं सर्वनेमि3सुभगं मेखला ततः। सर्वत्रैकाङ्गुलं त्यक्त्वा तिस्रः कार्याः सुशोभनाः ॥४॥ आदित्यवसुवेदानां सङ्ख्यालिभिरुन्नताः । चतुरङ्गुलविस्तारास्तिस्रोऽपि परमेश्वरि ॥ ४५ ॥ कुण्डस्य पश्चिमे भागे योनि कुर्यात्सलक्षणाम् । रव्यङ्गुलिसुविस्तारां वस्वङ्गुलिसुविस्तृताम् ॥१६॥ मध्ये षडङ्गुलां देवि विद्यां गु4ह्यां मनोरमाम् । १'भवेत् इति पा०। २ 'पुरं इति पा0 ३ सर्वनेत्रसुभगं' इति पा०। द्वयङ्गुल्युच्चां मनोरमाम्' इति पा० ।