पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकषष्टितमः पटलः। लक्षणं तु भु1वस्तस्याः कथितं तव सुन्दरि ॥४७॥ एतस्मिन्माति यद्यान्यं तदन्येषु यथा भवेत् । तेन मानेन सर्वाणि कुण्डानि रचयेद् बुधः ॥ ४८ ॥ गोमयोदकसंलिप्ते पूर्वात्पश्चिम2दिग्गते । दक्षिणाद्युत्तरान्तं तु तिस्रस्तिस्रश्च कारयेत् ॥ ४९ ॥ प्रणवेनाम्युक्ष्य मध्ये कल्पयेद्यागविष्टरम् । शर्करां विकिरेत्तत्र त्रिकोणं तत्पुटं लिखेत् ॥ ५० ॥ तद्वहिर्वसुपत्रं च ततो भूभण्डलं लिखेत् । उपर्युपरि भेदेन तत्र पीठं समर्चयेत् ॥ ५१ ॥ मण्डूकं च तथा रुद्रं कालाग्न्याधं ततः परम् । आधारशक्तिकूर्मे च ततोऽनन्तं वराहकम् ॥ ५२ ॥ पृथिवीं च तथा कन्दं नालपद्मं च कर्णिकाम् । पत्राणि केसराण्येवं तत्तत्स्थानेषु पूजयेत् ॥ ५३ ॥ धर्मं3 ज्ञानं च वैराग्यं चतुर्दिक्षु प्रपूजयेत् । अपूर्वास्ताश्च शेषेषु पीठस्य परिपूजयेत् ॥ ५४ ॥ पुनस्तारेण सम्पूज्य यागविष्टरकं यजेत् । १'लक्षणं चतुरस्रस्य' इति । २'पश्चिमात्पूर्वदिग्गता' इतिपा। ३ 'धर्मं ज्ञानं च वैराग्यमौश्वर्य पीठदिक्षु च । नयादिस्ते च को. णेषु पीठस्थ परिपूजयेत्' इतिपा० ।