पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७२ दक्षिणामूर्तिसंहिता। मध्ये क्रतुमर्ती विश्वमातरं वेदमस्तकाम् ॥ ५५ ॥ पुरुषाधिष्ठितां ध्यात्वा तद्यौनौ सम्पुटस्थिताम् । वह्निकुण्डोपरि भ्राम्य किञ्चिदङ्गारकं त्यजेत् ॥ ५६ ॥ अस्त्रमन्त्रेण सकलान् भुतान्सन्त्रासयेत्सुधीः । पश्चात्प्रज्वालयेद्वह्निं ज्ञानाग्निं सङ्क्रमय्य तु ॥ ५७ ॥ दीपाद्दीपान्तरन्यायात् स्फुरन्तं सर्वतोमुखम् । श्वासमार्गेण मनुविद्योनिमार्गेण सङ्क्षिपेत् ॥ ५८ ॥ कुण्डत्रिकोणमध्ये तु तत्र प्रज्वालयच्छुचिम् । आदौ व्याहृतिभिः पश्चाद्वह्निमन्त्रेण च क्रमात् ॥५९॥ चित्पिङ्गलहनद्वन्द्वं दहद्वन्द्वं पच द्विधा । सर्वज्ञाज्ञापय स्वाहा मनुना प्रार्थयेत्ततः ॥ ६ ॥ अग्नि प्रज्वालितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥ ६१ ॥ उपस्थानं विधायेत्थं जिह्वाङ्गानि प्रविन्यसेत् । सषशाबलरा यश्च रषष्ठस्वरयान्विताः ॥ ६२ ॥ बिन्दुनादाङ्किताः सप्त जिह्वार्णाः परिकीर्तिताः । पद्मरागासुवर्णा च तृतीयाभद्रलोहिता ॥ ६३ ॥ लोहिता च तथा श्वेता धूर्मिला च करालिका । कमेण योजयेद्वीजै र्विन्यसेत् परमेश्वरि ॥ ६४ ॥ पल्लिङ्गगुदमूर्द्धास्यनासानेत्रेषु च क्रमात् ।