पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकषष्ठितमः पटलः। १७३ सुराश्च पितरश्चैव गन्धर्वा यक्ष1पन्नगाः ॥ ६५ ॥ पिशाचा राक्षसाश्चैव स्मर्तव्यास्तेषु सप्तम् । सहस्रार्च्चिः स्वस्तिपूर्णो उत्तिष्ठपुरुषस्तथा ॥६६ ॥ धूमव्यापी सप्तजिह्वो धनुर्द्धर इतीरिताः । ङेत्हृदन्तैः षडङ्गानि ततो मूर्त्यष्टकं न्यसेत् ॥ ६७ ।। जातवेदाः सप्तर्जिह्वो हव्यवाहन एव च । विश्वोदरश्चतुर्थः स्याद्वैश्वानर उभे ततः ॥ ६८ ॥ षष्ठः कौमारतेजाश्च विश्वदेवमुखौ न्यसेत् । मूर्द्धांसपार्श्वकट्यन्धुकटिपाश्वांसकेषु च ॥ ६९ ॥ ङेऽन्तास्तु सकला ज्ञेया अग्निमूर्त्यङ्गकाः क्रमात् । एवं विन्यस्तदेहः सन्पर्युक्ष्यार्ध्य॑जलेन च ॥ ७० ॥ दिक्षु दर्भैः परिस्तीर्य ततस्तु परिषेचयेत् । वैश्वानर ततो जातवेद पश्चादिहावह ॥ ७१ ॥ लोहिताक्ष च सर्वान्ते कर्माण्यपि च साधय । स्वाहान्तोऽणुरयं तारवत्कः चित्पिङ्गलोऽपि च ॥७२॥ अनेन वह्निमभ्यर्थ्य ततो जिह्वाः समर्चयेत् । मध्ये च कोणषट्के च ततोऽङ्गानि प्रपूजयेत् ॥७३॥ मूर्तयो वसुपत्रेषु भूविम्बे दिगधीश्वराः । पुनर्वैश्वानरं यष्ट्वा त्रिनेत्रमरुणप्रभम् ॥ ७४ ॥ १'किन्नरा इतिपा।