पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ दक्षिणामूर्तिसंहिता। शुक्लाम्बरं रक्तरत्नभूषणं पद्मसंस्थितम् । वरं शक्तिं स्वस्तिकं चाभीतिहस्तैश्च विभ्रतम् ॥७॥ अनेकहेममालाभिरङ्कितां संस्मरेत्ततः1 । अर्ध्योदकेन पात्राणि प्रोक्षयेच्छोध2येत्ततः ॥ ७६ ॥ उन्मुखीकृत्य सर्वाणि तत्र तत्र विनिक्षिपेत् । प्रणीताप्रोक्षणीयुग्मे जलथाल्यां घृतं तथा ॥ ७७ ॥ अन्यत्सर्वेषु पात्रेषु होमद्रब्याणि संक्षिपेत् । स्रुक्स्नुवे जलपाने च घृष्टे पुष्पे विनिक्षिपेत् ॥ ७८ ॥ स्थाली पूर्वान्वितां कुर्यात्सर्वतो धूपयेत्प्रिये । मेखलासु च सर्वासु वेष्टयेहीपमालिकाम् ॥ ७९ ॥ त्रिपङ्क्त्या चाभितः कुण्डं ततो व्याहृतिभिर्खनेत् । ब्रह्माणं दक्षिणेऽभ्यर्च्य हुनेद्वैश्वानरान् गणान् ॥ ८॥ गर्भाधानादि संस्कारान् चिन्त3येत्सिद्धिहेतवे । अनेन विधिनाऽभ्यर्च्य श्रीचक्रतत्र चिन्तयेत् ॥८१॥ तदन्तरे समावाह्य महात्रिपुरसुन्दरीम् । समस्तचक्रचक्रेशीसहितां होमयेत्ततः ॥ ८२॥ दशाज्याहुतिभिः पश्चात्पूजनादिक्रमेण च । १ 'संस्मरेद्वुधः इति पा०। २ 'प्रोक्षयेच्छुद्धये ततः इति पा० । ३ 'प्रकुयात्सिद्धिहेतवे इति पा० ।