पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकषष्टितमः पटलः। १०५ समस्तचकचक्रेशी प्रकटाद्याश्च योगिनी ॥ ८३ ॥ होमयेच्च घृतनैव चैकैकामाहुतिं क्रमात् । ततः पूर्वोक्तसुद्रव्यैः होमयेत्सुभगां पराम् ॥ ८४ ॥ हवनं पद्मरागाणां सर्वसिद्धिप्रदं भवेत् । रुद्ररक्ता सुवर्णा च सर्वकामफलाप्तये ॥ ८५ ॥ लोहितानां भवेच्छान्तिस्तम्भनं च क्रमाद्भवेत् । उच्चाटनं तु धूमिन्यां करालिन्यां च मारणम् ॥८६॥ इति ते कथितं दिव्यं होमलक्षणमुत्तमम् । कुतो विघ्नौपशमनी नान्यथा वरवर्णिनि ॥ ८७ ॥ दीपस्थानं समाश्रित्य जपहोमौ समाचरेत् । वसुकोष्ठं लिखेकूर्मं मध्यस्थाने प्रकल्पयेत् ॥ ८८ ॥ स्वरान् द्वन्द्वविभागेन पूर्वादिक्रमतो लिखेत् ॥ काद्यवर्गास्तु सप्तैते पूर्वादिक्रमतो लिखेत् ॥ ८९ ॥ लक्षवर्गोऽष्टमो योज्यः कूर्मचक्रमिदं भवेत् ॥ स्थानाक्षरत्रयं देवि सिद्धिस्तत्र न संशयः ॥ ९ ॥ स्थानाक्षरमुखं ज्ञेयं पार्श्वयोस्तस्य वै करौ । तत्र शून्यफलं मध्यं कोष्ठयुग्मं तु मृत्युदम् ॥११॥ उदरं कच्छपस्यैतत्पादौ तु पश्चिमौ क्रमात् । रोगहानिकरौ पुच्छं तयोर्मध्यगतं भवेत् ॥ ९२ ॥ दारिन्द्र्यदण्डं सुखदं तस्माच्चक्रं समाश्रयेत् ।