पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७६ दक्षिणामूर्तिसंहिता। तत्रैव सिद्धिर्नान्यत्र श्रीगुरोराज्ञया प्रिये ॥ ९३ ॥ देशं वा कल्पयेत्स्थानं नगरं ग्राममेव वा । दीपे वासोऽपि कर्तव्यः किं पुनर्हवने यजेत् ॥९॥ इतिश्रीदक्षिणामूर्तिसंहितायां जपहोमलक्षणं नाम एकषष्टितमः पटलः॥११॥ अथ द्विषष्टितमः पटलः। ईश्वर उवाच- अथातः सम्प्रवक्ष्यामि चक्रराजस्य साधनम् । एवं संसिद्धविद्याया विनियोगक्रमं शृणु ॥ १ ॥ कृत्वा सिन्दूररजसा चक्र तत्र विचिन्तयेत् । साध्यस्य प्रकृतिं नाम लेखनीकां प्रयत्नतः ॥ २ ॥ ज्वलन्ती तु क्षणाद्देवी मोहिता भयवर्जिता । त्यक्त्वा लज्जां समायाति. अथाऽन्यत्कथ्यते प्रिये ॥३॥ तन्मध्ये संस्थिते मन्त्री चिन्तयेदरुणं शुभम् । आत्मानं च तथा साध्यं तदा सौभाग्यसुन्दरः ॥४॥ अरुणैरुपचारैस्तु पूजयन्मुद्रया वृतः। यस्य नाम्ना युतः सम्यवक्स मवेद्यः स एव हि ॥५॥