पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१९४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८० दक्षिणामूर्तिसंहिता। भूर्जपत्रे लिखेच्चक्रं रोचनाऽगरुकुङ्कुमैः । स्वनामगर्भितं कुर्याद्देशं वा पुटभेदनम् ॥३४ ॥ मण्डलं विषमस्थानं भुमौ चक्रं विधापयेत् । धारयेच्च ततो मन्त्री पुरं क्षोभयति क्षणात् ॥ ३५ ॥ उन्मत्तरसलाक्षार्कक्षीरकुङ्कुमरोचनाः । कस्तूर्यलक्तसहिता एकीकृत्य तु संलिखेत् ॥ ३६ ॥ यन्नाम्ना 1तस्य देवेशि चौरजं व्याघ्रजं भयम् । ग्रहजं व्याधिजं चैत्र रिपुजं सिंहजं भयम् ॥ ३७॥ अहिजं वाजिजं नास्ति सर्वान्मोहयति क्षणात् । रोचनाकुङ्कुमाभ्यां तु मध्यगां संलिखेद् बुधः ॥३८॥ त्रिकोणोभयगां चैव साध्यनामाङ्कितामधः । तच्चक्रं धारयेत्तस्मात्सप्ताहात्किङ्करो भवेत् ॥ ३९ ॥ पीतद्रव्येण चक्रान्ते लिखेद्विद्यामधस्ततः । साध्यनाम च विलिखेत्पूर्वस्यां दिशि सङ्क्षिपेत् ॥४०॥ तस्माद्ब्रह्मा च जीवोऽपि सर्वज्ञो मूकतां व्रजेत् । अनेन विधिना नीलीरसेन विलिखेच्च तत् ।। ४१ ॥ दक्षिणाभिमुखो मन्त्री वन्हौ दग्ध्वा रिपून् दहेत् । महिषाश्वपुरीषेण गोमूत्रेणैव संलिखेत् ॥ ४२ ॥ आरनालस्थितं कुर्याद्भवेद्विद्वेषणं क्षणात् । १ 'यस्य नाम्ना तु देवैशि' इति पा० ।