पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१९५

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विषष्टितमः पटलः। १८१ साध्यनाम लिखेन्मध्ये काकपक्षेण संलिखेत् ॥४३॥ संलिख्य रोचनाद्रव्यैराकाशे दृष्टिगं यथा । शत्रूनुच्चाटयेदाशु हठोच्चाटोऽयमीरितः ॥ ४४ ॥ महानीलीरसोद्भिन्नरोचनादुग्धमिश्रितैः । लाक्षारसैर्ल्लिखेच्चक्रं चतुर्वर्णान्वशं नयेत् ॥ ४५ ॥ अनेन विधिना नीरे स्थापयेत्तज्जलेन तु । सौभाग्यं महदाप्नोति स्नानपानान्न संशयः ॥४६|| पीतं चक्रं यजेत्पूर्वे स्तम्भयेत्सर्ववादिनः । सिन्दूरलिखितं चक्रमुत्तरे लोकवश्यकृत् ॥ ४७ ।। पश्चिमे पूजितं चक्रं गैरिकालिखितं ततः । मन्त्रिणो देवता वश्याः किं पुनयोर्षितः प्रिये ॥४८॥ 1तथैव दक्षिणस्यां तु यदि चक्रं समर्चयेत् । साध्यस्य मन्त्रहानिः स्यान्मारणं च विशेषतः ॥४९॥ क्रमादिगन्तरास्यः सन् वह्निकोणादिषु क्रमात् । स्तम्भनं द्वेषणं व्याधिमुच्चाटं कुरुते नरः॥ ५० ॥ दुग्धे वश्यकरं क्षिप्रं रोचनालिखितं हठात् । हुत्वा तद्वह्निमध्यस्थं सर्वशत्रून्विनाशयेत् ॥ ५१ ॥ गोमूत्रमध्यगं चेत्तद्भवेदुच्चाटनं रिपोः । विद्वेषणं भवेत्तक्रे तेनैव परमेश्वरि ॥ ५२ ॥ 1 तथैव दक्षिणास्यस्तु कृष्णं चक्रं समर्चयेत्' इति पा० ।