पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। सिन्दूरेण लिखेच्चक्रं निर्जने च चतुष्पथे । सर्वबाह्यत आरभ्य मध्यगां मातृकां लिखेत् ॥ ५३ ॥ कुलाचारक्रमेणैव रात्रौ सम्पूजयेत्क्रमम् । साधकः खेचरो देवि जायते नात्र संशयः॥ ५४ ॥ चतुर्दश्यां निशि स्वस्थो रुद्रभूमौ प्रपूजयेत । षण्माससङ्ख्यया तेन साक्षाद्रुद्र इवापरः ॥ ५५ ॥ अञ्जनं हि परं सिद्धिगुटिकां पादुकाञ्जयम् । खड्गं वेतालसौभाग्यं यक्षिणीचेटकादिकम् ॥ ५६ ।। सकलं सिद्धिजनकं मन्त्री प्राप्नोति नान्यथा । चतुर्द1श्यां नवभ्यां च प्रत्यष्टम्यां समाहितः ॥ ५७ ॥ एकविंशतिरात्रं तु निशि प्रेतशिलातले । श्रीचक्रं पूजयेत्तद्वत्सुरपूज्यस्तु साधकः ॥ ५८ ॥ पाशाङ्कुशधनुर्वाणैः पौरुषेयैर्महेश्वरि । कामो भूत्वा स्वर्गभूमिपातालतलयोषिताम् ॥५९॥ हर्ता कर्ता स्वयं चैव महदाकर्षणं भवेत् । तद्वत्कामेश्वरीशस्त्रैर्देव्यात्मा भुवनत्रये ॥ ६ ॥ पुरुषाकर्षणं चैतद्राजानः किङ्कराः प्रिये । एतत्कामकलाध्यानं कथितं बीजभेदतः ॥ ६१ ॥ वाग्भवाराधने देवि ज्ञानं सारस्वतं भवेत 1 १'चतुर्दश्यां चतुर्दश्या' इति पा० ।