पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८४ दक्षिणामूर्तिसंहिता। अथ त्र्यधिकषष्टितमः पटलः । ईश्वर उवाच- अथ दीक्षाविधिं वक्ष्ये दुर्लभं भुवनत्रये । पूर्वोक्तेन प्रकारेण नवयोन्यङ्कितान्तरम् ॥ १ ॥ बुद्धया संयोजयेन्मन्त्री यथा त्र्यसं प्रजायते । वसुकोणं द्वादशारं षोडशारं ततः परम् ॥ २ ॥ द्विदशारं वृत्तयुक्तं ततोऽष्टदलमालिखेत् । भृबिम्बं च ततो मध्ये पूजयेत्रिपुरां पराम् ॥ ३ ॥ आदावङ्गानि सम्पूज्य त्रिकोणेषु रतित्रयम् । मातरोऽष्टारपत्रेषु वामाद्या नवयोनिषु ॥ ४ ॥ नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा । मदगवा द्राविणी च रुचिरeा1 रागवत्यथ ॥ ५ ॥ कामेश्वरी तथा कामदीपिनी कामकेश्वरी2 । ललिता क्षोभिणी भद्रा स्वछन्दललिता तथा ॥ ६ ॥ हुङ्कारी भीम3चारा च कमला कमलेश्वरी । नीलग्रीवा विशालाक्षी भेरुण्डा डामरेश्वरी ॥ ७ ॥ कलायोनिषु सम्पूज्य ततो विंशतियोनिषु । १'द्रविणा रागषत्यथ' इति पा। २'कामके शिवाइति पा० । ३'भीमभावाच इति पा० ।