पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिषष्टितमः पटलः । १८५ मायावती महाक्षी च ततः सर्ववशङ्करीं ॥ ८॥ समया समयेशानि नित्यानन्दा महोदया । सर्वसौभाग्यदा नन्दा चन्द्रिका चन्द्रशेखरा ॥ ९ ॥ सर्वेश्वरी च सम्पूज्या पीठानि वसुपत्रके । भृगृहे त्रिपुरेशी च दीक्ष्या योन्यङ्कितं न्यसेत्1 ॥१०॥ एतदग्रे च धान्यैस्तु साधारं कलशं क्षिपेत्2 । विशेषगन्धपुष्पैस्तु वर्णरत्नैः प्रपूजयेत् ॥ ११ ॥ स्थापयेच्चक्रराजं च सम्यगभ्यर्च्य देशिकः । आद्याक्षरेण संल्लग्नं सुन्दरं नाम कल्पयेत् ॥ १२ ॥ आत्मानं योजयित्वा तु गुरु3भेदेन वै ततः । स्मर्तव्या गुरवः सर्वे सम्यक्प्रणतिपूर्वकम् ॥ १३ ॥ भूमौ लिखित्वा विद्यां च सम्यक्पुष्पादिभिर्यजेत् । शिष्याय दर्शयेद्विद्यां प्रजप्तां शतधा प्रिये ॥ १४ ॥ यदि स्यान्महती प्रीतिः शिष्यस्य प्राणदस्य तु । एं4कोच्चारणमात्रेण दक्षकर्णे जपेत्पराम् ॥ १५ ॥ षोडशी तु परां विद्या न दद्यात्कस्यचित्प्रिये । राज्ञे राज्यप्रदायाऽपि पुत्राय प्राणदाय वा ॥ १६ ॥ १ यजेत्' इति पा। २ 'यजेत्' इतिा। ३ 'गुरुभिर्मानवैस्तस्था' इति प० । ४ तद्वैकोच्चारमात्रेण दनकर्णजपेत्सुधीः । इति पा० ।