पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणमूर्तिसंहिता। महागजतुरङ्गाश्च जायन्ते तस्य मन्दिरे । सुर्वणरत्नभूषादिमण्डितः साधको भवेत् ॥ १५ ॥ इति दक्षिणामूर्तिसंहितायां महालक्ष्मीपूजाविधिर्नाम- द्वितीयः पटलः । अथ तृतीयः पटलः। ईश्वर उवाच- त्रिशक्तियजनं बक्ष्ये सर्वसिद्धिप्रदं नृणाम् । श्रीवीजं च परावीजं कामवजिं समालिखेत् ॥ १ ॥ इयं त्रिशक्तिर्देवेशि त्रिषु लोकेषु दुर्लभा । ऋषिर्ब्रह्मास्य गायत्री छन्दोऽपि कथितम्प्रिये ॥ २ ॥ अथ यंत्रं प्रवक्ष्यामि साधकानां हिताय च । षट्कोणं पूर्वमालिख्य मध्ये तु विलिखेत्सुधीः ॥ ३ ॥ वीप्सया तान्तु षट्कोणकोणेषु क्रमतो यजेत् ॥ ४ ॥ बाह्ये वसुदलं कुर्यात् दीर्घस्वरविभूषितम् । चतुरस्रं चतुर्द्वारभूषितम्मंडलं लिखेत् ॥ ५ ॥ मध्ये समावाह्य देवीं ध्यायेत्सर्वसमृद्धिदाम् । नवहेमस्फुरद्भूभौ रत्नकुट्टिममण्डपे ॥ ६ ॥