पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२००

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। शाम्भवाज्ञां प्रकुर्वीत तद्वत खेचरसंज्ञिकाम् । अनिर्वाच्योपदेशस्तु स्पर्शनाद्ब्राह्मणो भवेत् ॥१७॥ कलशस्थः पल्लवैस्तु त्रिवारं प्रोक्षयेत्सुतम् । भवेत्तदाऽभिषिक्तस्तु, तदाऽसौ देशिकाग्रणीः॥१८॥ गण्डूषतत्त्वसंयुक्तस्तदाऽर्होऽयं शिवार्चने । अन्यथा नैव सिद्धिः स्यात्सविकल्पस्य पार्वति ॥१९॥ गण्डूषदाने शिष्यस्य विकल्पो यदि जायते । न सिद्धिस्तस्य कुत्रापि श्रीविद्याऽपि पराङ्मुखी ॥२०॥ गुरवे दीयते सर्वमज्ञानं क्षालयेदपि । तस्माद्दीक्षेयमाख्याता मन्त्रसिद्धिकरी प्रिये ॥२१॥ दीक्षितः सन्महेशानि दूती1यागविधिं चरेत् । विशेषार्धंविधिं कुर्यात् पश्चाद् दूतीं समानयेत ॥२२॥ समयाचारविधिना मण्डिता सुन्दरानना । अष्टक्षेत्रकुलोद्भूता तरुणी चारुलोचना ॥ २३ ॥ आनन्दमुदिता ग्राह्या, विरूपां विकृताननाम् । व्यङ्गां वृद्धां च विधवां विविक्तां भक्तिवर्जिताम् ॥२४॥ कुमारी कुपितां खिन्नां द्वेषिणी ब्रतधारिणीम् । वर्जयेत्परमेशानि पूर्वोक्तां चेत् सुलक्षणा ॥ २५ ॥ भगमालां समुच्चार्य तस्या योनिं प्रपूजयेत् । १'विनियोग विचिन्तयेत्' इति पा० ।