पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१९० दक्षिणामूर्तिसंहिता। विजया च जया देवी मुक्तिदा च सदाशिवा ॥१५॥ मनोन्मनी च नवमी दशमी सर्वतोमुखी । ग्रन्थिस्था देवताः सर्वा उपचारैः समर्चयेत् । ॥ १६ ॥ मूलमन्त्रेण चामन्त्र्य पवित्रेषु कला यजेत् । नित्याः षोडश देवेशि श्रीविद्यां च स्मरेत्प्रिये॥१७॥ अधिवासविधिः प्रोक्तः पश्चादाराधनं भवेत् । नित्यार्चनानन्तरं तु नैमित्तिकमिदं भवेत् ॥ १८ ॥ समस्तेभ्यः पवित्राणि कन्यकाभ्यः सभोजनम् । स्वगुरुं पूजयेत्पश्चाद्वस्त्रालङ्कारगोधनैः ॥ १९ ॥ यथाशक्ति नमस्कृत्य देवीरूपेण चिन्तयेत् । आरोपयेत्पवित्रं तु वित्तशाठ्यविवर्जितम् ॥ २० ॥ गुरुः सम्पूज्यते यत्र ततः कर्म1फलं लभेत् । स चेन्न पूज्यते यत्र क्रिया सा निष्फला भवेत् ॥२१॥ गुरोरभावे तत्पुत्रं पुत्राभावे तदङ्गनाम् | तदभावे च तत्पौत्रं दौहित्रं तदसम्भवे ॥ २२ ॥ सर्वाभावे ऽर्चयेदन्यं गुरुगोत्रसमुद्भवम् । पूजयेत्स्वगुरुं यत्र तत्रैताः सफलाः क्रियाः ॥ २३ ।। न पूज्यते निष्फलता भवन्ति परमेश्वरि । हुत्वा पूर्णाहुतिं पश्चादग्नौ द2ग्ध्वा पवित्रकम् ॥ २४ ॥ (१)'तस्कर्मसुफलापहम् इति पा० । (१) 'अग्नौदध्यात्पवित्रकम्' इति पा.।