पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

पश्चषष्टितमः पटलः। १२१ श्रीचक्रमध्यासिद्धायै पूजयेच्च निवेदयेत् । पर्वैतन्न करोत्येव तस्य पूजाऽति निष्फला ॥ २५ ॥ इतिश्रीदक्षिणामूर्तिसंहितायां पवित्रारोपणविधिर्नाम चतुःषष्टितमः पटलः ॥ ६४ ॥ अथ पञ्चषष्टितमः पटलः। ईश्वर उवाच- अथ वक्ष्ये महेशानि दमनारोपणक्रियाम् । पवित्रपर्ववत् साऽपि कर्त्तव्या साधकः प्रिये ॥१॥ चैत्रादयस्त्रयो मासाः पक्षौ सितसितेतरौ । एतेषां पूर्वपूर्वस्तु कालः सर्वोत्तमोत्तमः ॥२॥ अष्टम्यां च चर्तुदश्यां पौर्णमास्यामथाऽपि वा । पूर्वरात्रौ प्रकुर्वीत सद्यो वाचाऽधिवासनम् ॥ ३ ॥ आमन्त्र्य दमनं चाद्यं चतुः कल्पलतादिभिः । शिवाप्रसादसम्भूत अत्र सन्निहितो भव ॥ ४ ॥ शिवकार्यं समुद्दिश्य छेत्तव्योऽसि शिवाज्ञया । इत्यामन्त्र्य रतिं कामं तत्र सम्पूजयेत्सुधीः ॥५॥ स्वयमुत्पाट्य दमनं समू1लं पल्लवैर्युतम् । १'स्थापयेत्पूजयेत्ततः इति पा० ।