पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१९२ दक्षिणामूर्तिसंहिता। आ1नीतमथवाऽन्येन मौन्यादानीतमीश्वरि ॥ ६॥ वा2मतः स्थापयेद्देवि सर्वतोभद्रकाम्बुजे । व3सुवेदायतं यन्त्रं स्थापयेत्पूजयेत्ततः ॥ ७ ॥ प्रणवं भुवनेशानी रतये नम इत्यपि । इति मन्त्रो महेशानि काममन्त्रस्तु कथ्यते ॥ ८॥ प्रणवं कामबीजं च कामाय नम इत्यपि । मन्त्राभ्यां पूजयेत्तत्र दमनं कपिकागतम् ॥ ९॥ ततस्तत्पद्मपूर्वादिदलेषु पुटिका लिखेत्4 । अष्टस्वष्टाष्टभिर्मन्त्रैरष्टद्रव्ययुताः क्रमात् ॥ १० ॥ कामो भस्मशरीरश्च तथाऽनङ्गश्च मन्मथः । वसन्तः शशनामा च स्मर इक्षुधनुर्द्धरः ॥ ११ ॥ पुष्पवाणमस्वताराद्यो ङेहृदन्तः प्रकीर्तितः । कर्पूररोचनायुग्मं कस्तूरी च ततः प्रिये ॥ १२ ॥ अगुरुं कुङ्कुमं धात्रीफलं चन्दनमेव च । सुगन्धं द्रव्यनिकरमष्टद्रव्याणि पार्वति ॥ १३ ॥ सम्पूज्य दमनं सम्यग्गन्धपुष्पाक्षतादिभिः । जपेदनङ्गगायत्री यथाशक्ति प्रसन्नधीः ॥ १४ ॥ १इवमर्द्धे 'ख' पुस्तके नास्ति । २इदर्द्धं 'ख' पुस्तके नास्ति । ३ इदमर्द्ध्यं 'ख' पुस्तके नास्ति।। 'न्यसेत् ।। इति पा०।