पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिषष्ठितमः पटलः । १९३ वामदेवाय इत्युक्त्वा विद्महेति वदेत्ततः । पुष्पबाणाय च भवेद्धीमहि तदनन्तरम् ॥ १५ ॥ तन्नोऽनङ्गः प्रचोदान्ते यात् इत्यपि च कीर्तयेत् । नमोऽस्तु पुष्पबाणाय जगदानन्दकारिणे ॥ १६ ॥ मन्मथाय जगन्नेत्रे रतिप्रीतिप्रियाय च । अनेन मनुना देवि नमस्कुर्यात्ततः परम् ॥ १७ ॥ अथ विज्ञापनं कुर्याद् दैव्यै दमनपाणियुक् । आमन्त्रिताऽसि देवेशि सद्यःकाले मया शिवे ॥१८॥ कर्त्तव्यं तु यथालाभं पूर्ण पर्व त्वदाज्ञया । विज्ञापनाख्यमन्त्रेण त्रिपुरां परितोषयेत् ॥ १९ ॥ ततः सम्पूज्य देवेशी गन्धपुष्पाक्षतादिभिः । नैवेद्यं विधिवद्देवि श्रीविद्या प्रार्थयेत्ततः ॥ २० ॥ षोडशार्णे जगन्मातर्वाञ्छितार्थफलप्रदे। हृत्स्थान् पूरय मे देवि कामान्कामेश्वरेश्वरि ॥ २१॥ अनेन प्रार्थयेद्देवि पाश्चादनङ्गमीश्वरि । वर्मावगुण्ठनं कुर्यादस्त्रेण परिरक्षणम् ॥ २२ ॥ ततो जागरणं कुर्यात्सद्यश्चेज्जागरो न हि । अथ प्रातः समुत्थाय कुर्याद्वै नित्यपूजनम् ॥ २३ ॥ १ इदमर्द्ध 'ख' पुस्तके नाति । २ इदमर्द्धं 'ख' पुस्तके नास्ति ।