पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१९४ दक्षिणामूर्तिसंहिता। ततो नैमित्तिकं कुर्यात् दमनेन सुपूजयेत् । तेनैव महती पूजां मध्ये च पुष्पमिश्रिताम् ।। २४ ॥ मनोहरं च विधिवत्कृत्वा नैवेद्यमुत्तमम् । सकर्पूरं च ताम्बूलं दत्वाऽनङ्गं तु प्रार्थयेत् ॥ २५ ॥ समस्तचक्रचक्रेशि सर्वविद्याशरीरिण । दत्या दमनकं तस्यै नमस्कृत्य प्रसाध च ॥ २६ ॥ जलकेलिं ततः कुर्यात्सार्द्धं समयिभिः सुखम् । अन्नदानं प्रकुर्वीत रसैः षड्भिः समन्वितम् ॥ २७ ॥ एवं यः कुरुते विद्वान् दमनारोपणक्रमम् । तस्य साम्बत्सरी पूजा प्रतिविद्याऽघिष्टिता भवेत् ॥२८॥ इति श्रीदक्षिणामूर्तिसंहितायां दमनकारोपणविधानं नाम पञ्चषष्टितमः पटलः ॥६५॥