पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः पटलः। महाकल्पवनान्तस्थे रत्नसिंहासने वरे । कमलासनशोभाढ्यां रत्नमंजीररंजिताम् ॥ ७ ॥ स्फुरद्रत्नलसन्मौलिं रत्नकुंडलमंडिताम् । अनन्तरत्नघटित नानाभूषणभूषिताम् ॥ ८ ॥ दधतीं पद्मयुगलं पाशांकुशधनुःशरान् । षड्भुजामिन्दुवदनां दूतीभिः परिवारिताम् ॥९॥ चारुचामरहस्ताभां रत्नादर्शसुपाणिभिः । ताम्बूलस्वर्णपात्राभिर्भूषापेटिसुपाणिभिः ॥ १० ॥ तप्तकार्त्तस्वराभासां पूर्वोक्ते मण्डले यजेत् । उपचारैः समाराध्य ततोंगावरणीयजेत् ॥ ११॥ पूर्ववत्परमेशानि परिवारांस्ततो यजेत् । लक्ष्मीं हरिं च गिरिजां शिवं रत्यङ्गजौ क्रमात् ॥१२॥ अग्रकोणादि सम्पूज्य ततः षट्कोणपार्श्वयोः। शङ्खपद्मनिधी पूज्यौ वसुपत्रेषु मातरः ॥ १३ ॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्री चामुंडा सप्तमी भवेत् ॥ १४ ॥ महालक्ष्मीमहादेवी पुरस्तादि प्रपूजयेत् । इन्द्रादयस्तु सम्पूज्याः कामिनीरूपधारिणः ॥ १५ ॥ उत्तुंगा यौवनोन्मत्ता देव्याराधनगर्विताः । लक्षत्रयं जपेन्मंत्री नियमेन जितोन्द्रयः ॥ १६ ॥