पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

८ दक्षिणामूर्तिसंहिता। तद्दशांशेन देवेशि किंशुकामयेत्सुधीः । अनेन विधिना मन्त्री पुरश्चारी भवेत्प्रिये ॥ १७ ॥ इति दक्षिणामूर्तिसंहितायां त्रिशक्तिमहालक्ष्मीयजनविधि- स्तृतीयः पटलः। अथ चतुर्थः पटलः। ईश्वर उवाच- अथ वक्ष्ये महादेवि सर्वसाम्राज्यदेवताम् । यस्या आराधने विष्णुरभूल्लक्ष्मीपतिः स्वयम् ॥ १ ॥ चन्द्रेणमादनक्ष्मेशवह्निदीर्घाक्षिमण्डितम् । विन्दुक्रूरेश्वरीयुक्तं विद्येयं वैष्णवी प्रिये ॥ २ ॥ श्रीवीजसंयुतं कुर्यात्सर्वसाम्राज्यदायिनी । ऋषिहरिस्तथा छन्दो गायत्री चास्य सम्मता ॥३॥ देवता मोहिनी लक्ष्मीर्महासाम्राज्यदायिनी । वीजं कूटं समाख्यातं शक्तिः श्रीबीजमुच्यते ॥४॥ षड्भिराधस्वरैर्विद्वान्षडङ्गानि प्रबिन्यसेत् । अतसीपुष्पसङ्काशां रत्नभूषणभूषिताम् ॥ ५॥ शङ्खचक्रगदापद्मशार्ङ्गवाणघराङ्कुरैः । षड्भिः कराङ्गं देवेशि वरदाभयशोभिताम् ॥ ६ ॥