पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

चनुर्थः पटलः । ९ एवमष्टभुजां ध्यात्वा त्रिलक्षं प्रजपेत्सुधीः तद्दशांशेन पौस्तु हुनेत्साम्राज्यसिद्धये ॥ ७ ॥ जितेन्द्रियः सविधिवत् यन्त्रोद्धारं शृणु प्रिये । त्रिकोणं चाष्टपत्रं च भूबिम्बं च ततो लिखेत् ॥८॥ चतुर्दारातिशोभाढ्यं यन्त्रमेतत्समालिखेत् । अस्मिन्समावाह्य देवीं पूजयेदुपचारकैः ॥ ९ ॥ पूर्ववत्परमेशानि षडङ्गावरणं यजेत् । गायत्री चैव सावित्री सरस्वत्यग्रभागतः ॥ १० ॥ क्रमेण पूजयेन्मन्त्री ब्रह्माद्यांश्च स्वरैः पृथक् । अष्टपत्रेषु भूबिम्बे त्वेकोच्चारेण पूजयेत् ॥ ११ ॥ अष्टादशमहाकोटियोगिनीभ्यो नमो लिखेत् । अनेन मन्त्रतः पश्चादिन्द्रादीन्पूजयेत् ततः॥ १२ ॥ पुनर्देवीं सभभ्यर्च्य गन्धपुष्पाक्षतादिभिः । बटुकक्षेत्रपालेभ्यो योगिनीभ्यो वलिं हरेत् ॥ १३ ॥ इति दक्षिणामूर्तिसंहितायां साम्राज्यदाविद्यायजनविधि- श्चतुर्थः पटलः ।