पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१५ दक्षिणामूर्तिसंहिता। अथ पञ्चमः पटलः। ईश्वर उवाच- अथ श्रीकोशविद्यानां चतुष्कं शृणु पार्वति । यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ १ ॥ श्रीविद्या च परंज्योतिः परनिष्कलदेवता । अजपा मातृका चैव पञ्च कोशाः प्रकीर्तिताः॥२॥ प्रणवं पूर्वमुच्चार्य परां हंसपदं लिखेत् । ततः सोहं शिरो देवि वसुवर्णेयमीरिता ॥ ३ ॥ प्रणवाच्चित्कला ज्ञेया मायया व्याप्तिरूपिणी। हंसपदेन देवेशि साक्षादात्मस्वरूपिणी ॥ ४ ॥ तत्रत्यविन्दुत्रितयात् सृष्टिस्थितिलयात्मिका । प्रसृते विन्दुनाऽऽद्येन वामेयं ब्रह्मरूपिणी ॥ ५ ॥ बिन्दुनाऽथ द्वितीयेन पालयन्ती जगत्त्रयम् । ज्येष्ठेयं वैष्णवी माया चाद्या सत्त्वगुणा प्रिये ॥ ६ ॥ अन्येन विन्दुना सर्व ग्रसन्ती तमसा वृता । रौद्री विंदुत्रयं देवि प्रसृतैकात्मिका तदा ॥ ७ ॥ आत्मानं दर्शयत्येषा हंसाख्या संहतिर्यदा । तदेयं दर्पणाकारा तंतो ज्योतिर्मयी भवेत् ॥ ८॥ वर्णाभ्यां वह्निजायायाः परंज्योतिरिति प्रिये । एवं धिया जपेन्मत्री साक्षाद्ब्रह्म भवेत्तु सः ॥ ९ ॥