पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः पटलः । ऋषिब्रह्माऽस्य मन्त्रस्य गायत्री छन्द उच्यते । परं ज्योतिर्मयी साक्षाद्देवता परिकीर्तिता ॥ १० ॥ प्रणवान्ते द्वयं वीजं शक्तिः शेषं तु कीलकम् । स्वाहा तहृद्धयं सोहं शिरो हंसः शिखा भवेत् ॥११॥ मायया कवचं तारबीजेन नयनत्रयम् । व्यष्टया मन्त्रेण देवेशि समग्रेणास्त्रकं भवेत् ॥ १२ ॥ ज्ञानाग्नौ मातृकावर्णहविषा चाक्षराहुतिम् । अनेन मन्त्रेण जुहुयात्क्षणान्निर्वाणगो भवेत् ॥ १३ ॥ इति दक्षिणामूर्तिसंहितायां आत्माष्टाक्षरपरंज्योति- र्विद्याराधनं पञ्चमः पटलः । अथ षष्ठः पटलः। ईश्वर उवाच- अथ वक्ष्ये महेशानि परनिष्कलदेवताम् । यस्याः स्मरणमात्रेण चिरानन्दायते तनुः ॥ १ ॥ अनुग्रहादिर्देवेशि विन्दुनादकलात्मिका । परनिष्कलदेवीयं परब्रह्मस्वरूपिणी ॥२॥ शुक्लाम्बरपरीधाना शुक्लमाल्यानुलेपना । ज्ञानमुद्राङ्किता योगिपतिवृन्देन सेविता ॥ ३॥