पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। ऋषिर्ब्रह्माऽस्य गायत्री मनोश्छन्दः क्रमाद्वदेत् । ब्रह्मैव देवतावीजं शक्तिस्तत्र क्रमेण तु ॥ ४ ॥ मकारः कीलकं मोक्षफलदा ज्ञानरूपिणी । स्वरद्वन्द्वस्य मध्ये तु क्षिप्त्वा त्यक्त्वा चतुष्टयम् ॥५॥ ऋ ऋ लृलृच देवेशि षडङ्गानि प्रविन्येसत् । ततो यन्त्रं लिखेन्मन्त्री त्रिकोणं चाष्टपत्रकम् ॥ चतुरस्रं चतुर्द्वारं मण्डितं ज्ञानदं भवेत् । ब्रह्मरन्ध्रे विचिन्त्यैतत्तत्रावाह्य परमेश्वरीम् ॥ ७ ॥ गन्धपुष्पादिभिः सम्यक् मनोज्ञैरुपचारकैः अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् ॥ ८ ॥ हकारेण च ऋग्रूपं ब्रह्माणं पुरतो यजेत् । सामवेदेन सहितं सकारेण हरिं यजेत् ॥ ९॥ देव्या दक्षिणतः पश्वादन्त्यकोणे शिवं यजेत् । यज्ञस्वरूपकालेन त्रिकोणे कथितम्प्रिये ॥ १० ॥ अष्टपत्रे चतुर्दिक्षु पुरस्तादिक्रमेण तु । आत्मा परात्मा परमज्ञानात्मानो यजेत्क्रमात् ॥११॥ निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिचतुष्टयम् । विदिक्षु पूजेयन्मन्त्री ततो ब्रह्मादिकान्यजेत् ॥१२॥ तेष्वेव वसुपत्रेषु चतुरस्त्रे ततः परम् । इन्द्रादिलोकपालांश्च पूर्वादिक्रमतो यजेत् ॥१३॥