पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

संतमः पटलः। १३ गन्धपुष्पादिनैवेद्यतर्पणैः परितोषयेत् । ब्रह्मरूपो भवेन्मन्त्री मोक्षस्तस्य करे स्थितः ॥१४॥ इति दक्षिणामूर्तिसहितायां प्रणवविद्यापरनिष्कलभेदेन समाराधनं षष्ठः पटलः । अथ सप्तमः पटलः। ईश्वर उवाच- अजपाराघनं वक्ष्ये कथयामि तवानधे । यस्य विज्ञानमात्रेण परं ब्रह्मैव देशिकः ॥ १॥ हंसः पदं परेशानि प्रत्यहं जपते नरः। मोहबद्धो न जानाति मोक्षस्तस्य न विद्यते श्रीगुरोः कृपया देवि ज्ञायते जप्यते तदा । उच्छ्वासनिःश्वासतया वन्धमोक्षकृता भवेत् ॥ ३ ॥ उच्छ्वासे चैव निःश्वासे हंस इत्यक्षरद्वयम् । तस्मात्प्राणस्तु हंसाख्य आत्माकारेण संस्थितः ॥ ४॥ एकविंशतिसाहस्त्रं षट्शताधिकमीश्वरि । जपते प्रत्यहं प्राणिस्पन्दानन्दमयीं पराम् ॥ ५ ॥ उत्पत्तिर्जप आरम्भो मृतिरस्य निवेदनम् । विना जपेन देवेशि जपो भवति मन्त्रिणः ॥ ६ ॥