पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनी । श्रीगुरोः कृपया देवि लभ्यते नान्यथा प्रिये ॥ ७ ॥ एवं जपं महेशानि प्रत्यहं विनिवेदयेत् । गणेशब्रह्मविष्णुभ्यो हराय च परेश्वरि ॥ ८ ॥ जीवात्मने क्रमेणैव तथा च परमात्मने । षट्शतानि सहस्राणि षडेव च तथा पुनः ॥ ९ ॥ षट्सहस्राणि विमले सहस्रं चैवमेव हि । पुनः सहस्रं गुरवे क्रमेण तु निवेदयेत् ॥ १० ॥ आधारे श्वेतवर्णेऽस्मिन्वादिशान्तानि संस्मरेत् । हृतसौवर्णवर्णानि वर्णानि परमेश्वरि ॥ ११ ॥ स्वाधिष्ठाने विद्रुमाभे वादिलान्तानि संस्मरेत् । विद्युत्पुञ्जप्रभाभानि सलिले मणिपूरके ॥ १२ ॥ शडफान्तानि महानीलप्रभाणि च विचिन्तयेत् । पिङ्गवर्णे महावह्निकार्णकाभानि चिन्तयेत् ॥ १३ ॥ कादिठान्तानि वर्णानि चतुर्थेऽनाहते प्रिये ॥ १४ ॥ विशुद्धौ धूम्रवर्णे तु रक्तवर्णान्स्वरान् यजेत् । आज्ञायां विद्युदाभायां शुभ्रौ हस्तौ विचिन्तयेत् । कर्पूरद्युतिसंराजत्सहस्रदलनीरजे ॥ १५ ॥ नादात्मकं ब्रह्मरन्ध्रे जानीहि परमेश्वरि । एतेषु सप्तचक्रषु स्थितेभ्यः परमेश्वरि ॥ १६ ॥