पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः पटलः। . जपं निवेदयेदेवमहोरात्रभवम्प्रिये । सहजं परमेशानि न्यासं कुर्य्याद्विचक्षणः ॥ १७ ॥ ऋषिहंसोऽव्यक्तमूर्ति र्गायत्रं छन्द उच्यते । देवता परमादिस्थहंसो हं वीजमुच्यते ॥ १८ ॥ सं शक्तिः कीलकं सोहं प्रणवस्तत्त्वमेव हि । उदात्तस्वर इत्येवं मनोरस्य प्रकीर्तितः मोक्षार्थे विनियोगः स्यादेवं जानीहि पार्वती ॥ २० ॥ ततः षडङ्गविन्यासं कुर्याद्देहस्य सिद्धये ॥ २१ ॥ सूर्य्यं सोमं तथा देवि निरञ्जनमतः परम् । निराभासं चतुर्थ्यन्तं स्वाहान्तंक्रमतो न्यसेत् ॥२९॥ कवचान्तान्प्रविन्यस्य ततोऽनन्तपदं स्मरेत् । तन्नः सूक्ष्मचतुर्वर्णानुक्त्वा देवी प्रचोदयात् ॥ २२ ॥ स्याहान्तेनैव नयनमव्यक्तपदपूर्वकम् । प्रबोधात्मा चतुर्थ्याऽग्निजायान्तोऽस्त्रो निगद्यते ॥२३॥ प्राणायामस्य विधिवन्मन्त्री सम्यक्समासतः । मूलमन्त्रेण देवेशि वामेनापूर्य चोदरम् ॥ २४ ॥ कुम्भकेन त्रिरावृत्त्या दक्षिणेन च रेचयेत् । कनिष्ठानामिकाङ्गुष्ठर्यन्नासापुटधारणम् ॥२५॥ प्राणायामः स विज्ञेयः तर्जनीमध्यमे विना । अस्य हंसस्य देवेशि निर्गमागमपक्षकौ ॥ २६ ॥