पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः पटलः। ! स्वरास्तु परमेशानि जाता व्यक्तिस्तु कीलकम् । अनिर्वाच्या हलो वर्णाः शक्तया व्यक्ता भवन्ति हि ॥३॥ शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यते । असद्रूपा हलो वर्णाः शक्त्याऽऽसन्नाः पराङ्मुखाः॥४॥ स्फुरन्मात्रास्तदोच्चार्य्याः सम्मुखा व्यक्तवर्णकाः । ऋ ऋ लृ लृ परित्यज्य षड्युग्मस्वरमध्यगाः॥ ५ ॥ वर्गाः षट् च क्रमेणैव सप्तमः क्रोधसंयुतः। अन्ते निक्षिप्य देवेशि षडङ्गानि प्रविन्यसेत् ॥ ६ ॥ कलापत्राम्बुजे कण्ठे स्वरान्सम्यक् प्रविन्यसेत् । हृद्यर्कपत्रे तद्वर्णान्नाभौ दशदले न्यसेत् ॥ ७ ॥ दशवर्णांल्लिङ्गमध्ये षड्दले षट् तथेश्वरि । चतुर्दले तथाऽऽधारे चतुर्वर्णांस्ततो न्यसेत् ॥ ८ ॥ भ्रूमध्ये द्विदले हक्षावित्यन्तर्मातृकां न्यसेत् । कलापत्राम्बुजे कण्ठे स्वरान् सम्यक् प्रविन्यसेत् ॥९॥ ब्रह्मरन्ध्रे तथा वत्क्रे वेष्टने नयनद्वये । श्रुतिनासापुटद्वन्द्वे गण्डोष्ठद्वयकेषु च ॥ १० ॥ दन्तयुग्मे च मूर्द्धास्यद्वयोः षोडश विन्यसेत् । दोःपत्सन्धिषु साग्रेषु पार्श्वयुग्मे न्यसेत्कमात् ॥११॥ पृष्ठनाभिद्वये चैव जठरे विन्यसेदथ । त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ॥१२॥