पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। प्राणजीवौ च परमौ यकारादिषु संस्थिताः । क्रमेण देवदेवेशि न्यस्तव्या एतदात्मकैः ॥ १३ ॥ हदि मूलेन संन्यस्य तथैव च गले न्यसेत् । कक्षद्वयं हृदारभ्य पाणिपादयुगे तथा ॥ १४ ।। जठराननयोर्व्याप्त्या न्यसेदित्थं तु रूपिणी ॥१५॥ अनेन व्याप्तियोगेन मन्त्री वर्णस्वरूपवान् । ध्यायद्वर्णस्वरूपाढ्यां स्वरवक्रां क्रमेण तु ॥ १६ ॥ कचवर्गकरां रभ्यां टतवर्गपदाम्बुजाम् । पवर्गचारुपार्श्वाङ्गलसत्सातोदरी पराम् ॥ १७ ॥ यशवर्गाङ्गसुभगां पीनोन्नतघनस्तनीम् ॥ १७ ॥ नितम्बिनीं च गहनां शुक्लाक्षीं क्षाममध्यमाम् । मुक्तामाल्यांगरागाङ्गीमक्षस्रक्कुम्भशोभिताम् ॥१८॥ चिन्तालिखितसत्पाणिं समग्रवरदायिनीम् । एवं ध्यात्वा ततो देवीं यजनं च सुर्धाश्चरेत् ॥१९॥ आदौ वृत्तं कर्णिकायां हंसानुग्रहसर्गवान् । वाह्येऽष्टदलमालिख्य केशरेषु स्वरांल्लिखेत् ॥२०॥ युग्मयुग्मप्रभेदेन ततो वसुदलं लिखेत् । कादिवर्गाष्टकं योज्यं लक्षान्तं परमेश्वरि ॥ २० ॥ चतुरस्त्रं ततः कुर्य्यात्सिद्धिदं दिक्षु संलिखेत् । उकाराणां चतुष्कं च रेखान्तर्बाह्यतस्ततः ॥२२॥