पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः पटलः ।

वारुणं च समालिख्य देवीमावाहयेत्सुधीः । आदौ पीठार्चनं कृत्वा नवशक्तिपुरस्कृतम् ॥२३॥ मेधा प्रज्ञा प्रभा विद्या धीर्धृतिस्मृतिबुद्धयः । विश्वेश्वरी च पूर्वादिदिक्षु मध्ये प्रपूजयेत् ॥ २४ ॥ पश्चादावाह्य गन्धादीनुपचारान्प्रकल्पयेत् । अमीशासुरवायव्यमध्यदिक्ष्वंगपूजनम् ॥ २५ ॥ नियोज्य स्वरयुग्मान्ते नमस्कारं पृथक् पृथक् । तथैव कादिवर्गेषु नमस्कारं पृथक् क्षिपेत् ॥२६॥ अष्टधा वर्गपूजेयं ततो ब्राह्मयादिभिर्यजेत् । लोकपालैस्ततो देवीं समाराध्य यजेसुधीः ॥२७॥ - लक्षमा दशांशेन हुनेत्पालाशपुष्पकैः । त्रिमध्वक्तैर्मिताहारः पुरश्वारी ततो भवेत् ॥ २८ ॥ इति दक्षिणामूर्तिसंहितायां मातृकापूजा- साधनविधिरष्टमः पटलः । अथ नवमः पटलः । ईश्वर उवाच- पञ्चसिंहासनगता विद्या जप्या महेश्वरी । देवता पुरुषास्येन जप्यते तच्छृणु प्रिये ॥ १॥