पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

२ दक्षिणामूर्तिसंहिता। अनया सदृशी विद्या त्रिषु लोकेषु दुर्लभा । प्रणवाधं विन्दुनादसाहितं कुरु सुव्रते ॥ २ ॥ एतद्बाह्ये बमुच्चार्य सकलं कामवीजके । वामनेत्रेण बिन्द्वन्तं सर्गवान्भृगुरव्ययः ॥ ३ ॥ अनुग्रहेण संयुक्ता विद्येयं त्र्यक्षरी भवेत् । ऋषिस्तु दक्षिणामूर्तिरहं शिरसि विन्यसेत् ॥ ४ ॥ छन्दः पङ्क्तिस्तु विज्ञेयं मुखे विन्यस्य देवताम । हृदये त्रिपुरेशानि वाग्भवं बीजमुच्यते ॥ ५ ॥ शक्तिवीजं शक्तिरेव कामराजं च कीलम् । एषा विद्या महेशानि पुरुषार्थप्रदायिनी ॥ ६ ॥ पादादिनाभिपर्यन्तमाद्यं नाभेस्तथागतम् । मध्यम शक्तिवीजं च गलादामस्तकं न्यसेत् ।।७।। बामपाणितले तद्वदक्षपाणौ द्वयं न्यसेत् । करयोः संपुटे चैवमेवं न्यासद्वयं भवेत् ॥ ८ ॥ एतत्संपुटितां पश्चान्मातृकां विन्यसेत्सुधीः । नवयोन्यन्तिकं न्यासं कुर्यात्कमललोचने ॥ ९ ॥ कर्णयोश्चिवुके देवि शङ्खास्येषु दृशोर्न्नसि अंसयोर्ह्रदये देवि न्यसेत्कूर्परकुक्षिषु ॥ १० ॥ जानुद्वये पदद्वन्द्वगुह्येषु क्रमतो न्यसेत् । पार्श्वद्वन्द्वहृत्स्तनद्वन्द्वकण्ठे वापि च विन्यसेत् ॥११॥ 1