पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः पटलः । वीजत्रिक क्रमेणैव नवधा विन्यसेत् प्रिये । वीप्सया तां तु विन्यस्य पञ्च बाणान् न्यसेत्सुधीः॥१२॥ तथाङ्गं तान्तमालिख्य द्विधा बह्निसमन्वितम् । अनन्तवामनेत्राभ्यां चन्द्रार्धपरिभूषितम् ॥१३॥ कामवीजं च कालादिनादादिपृथिवीयुतम् । दीर्घकर्णेन्दुबिन्द्वाढ्यमजपान्तं लिखेत्क्रमात् ॥ १४ ॥ ललाटगलहन्नाभिमूलाधारेषु विन्यसेत् । पुनरेतेषु बीजानि पञ्चसंख्यानि विन्यसेत् ॥ १५ ॥ शक्तित्रयं च वाग्बीजं चतुर्थ वाणमालिखेत् । ततः स्त्रीमात्मकं पञ्च कामा एते प्रकीर्तताः ॥१६॥ एवं विन्यस्तदेहः सन् प्राणायामस्य पूर्ववत् । ध्यायेद्देवीं महेशानि कदम्बवनमध्यगाम् ॥ १७ ॥ रत्नमण्डपमध्ये तु महत्कल्पलतान्तरे । मुक्तातपत्रच्छायायां रत्नसिंहासनस्थिताम् ॥ १८ ॥ अनर्घ्यरत्नघटितमुकुटां रत्नकुण्डलाम् । हारग्रैवेयसद्रत्नचित्रितां कङ्कणोज्वलाम् ॥ १९ ॥ पाशाङ्कुशौ महेशानि दक्षवामकरेण वै । वरदाभयशोभाढयां सम्यक्सारस्वतप्रदाम्॥ २०॥ एवं ध्यात्वा जेपन्मन्त्रं रसलक्षं समाहितः । पूर्वोक्तेन विधानेन सर्वकामार्थसिद्धये ॥ २१ ॥