पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। अथवा देवदेवेशि नृन(?)बोधं यदा भवेत् । तदा सर्वार्थदा विद्या मुक्तिभुक्तिफलप्रदा ॥ २२ ॥ श्रीगुरोः कृपया लभ्या सर्वकामार्थसिद्धये । अथवा देवदेवेशि पद्मरागप्रभां स्मरेत् ॥ २३ ॥ रक्तवस्त्रपरीधानां रक्ताभरणमण्डिताम् । हकारार्द्धस्वरूपां च बिन्दुत्रययुतां प्रिये ॥ २४ ॥ एवं कामकलाध्यानं सदावां यः(?) समुत्थितम् । अथातः सम्प्रवक्ष्यामि ध्यानं सर्वोत्तमोत्तमम् ॥ २५ ॥ तर्पणं च दशांशेन लक्षं चायुतसंख्यया । वर्णानुक्रमयोगेन गङ्गातोयेन वा प्रिये ॥ २६ ॥ तर्पणं च त्रिधा भूयः कर्पूरवासितैर्जलैः । तद्दशांशं च जुहुयात् किंशुकैस्त्रिमधूत्कटैः ॥ २७ ॥ अथ वक्ष्ये महेशानि यन्त्रं सर्वार्थसिद्धिदम् । आदौ शक्तिं समालिख्य तस्यामुपरि संलिखेत् ॥२८॥ तामेव विस्तरात्किञ्चित्संपुटीकृत्य वह्निना । संधिभेदक्रमेणैव नवयोनिर्यथा भवेत् ॥ २९ ॥ हंसौकारं लिखेत्पद्मे कामाख्या चाष्टयोनिषु । वहिर्वृत्तं समालिख्य दलै राजितमष्टभिः ॥ ३० ॥ केशरेषु स्वरा योज्या द्वंद्वशः परमेश्वरि । कचप्रस्तपया वर्णसंस्काराः परमेश्वरि ॥ ३१ ॥