पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः पटलः। अष्टपत्रेषु संलिख्य ततः शूलाष्टकं लिखेत् । पत्राग्रेषु ततो मन्त्री लिखेद्वर्णान् क्रमेण तु ॥ ३२ ॥ तेषु शूलेषु कखगघान्पूर्वतः क्रमतो लिखेत् । ङचच्छजानग्निदिग्भागे मञटान् दक्षिणे लिखेत्॥३३॥ डढणान् नैऋते भागे थदधान पश्चिमे लिखेत् । नफबान् वायुदिग्भागे भमरानुत्तरे लिखेत् ॥ ३४ ॥ लवशानंसदेशे तु ततो वृत्तं समालिखेत् । वृत्तं मातृकया बीजं ततो भूर्विवमालिखत् ॥ ४५ ॥ चतुर्द्वारविशोभाढ्यं मध्ये पुष्पं विनिःक्षिपेत् । पीठार्चनं ततः कुर्य्यादेवीद्रव्यमनोहरा ॥ ३६ ॥ वामा ज्येष्ठा च रौद्री च अम्बिकेच्छा ततः परम् । ज्ञानक्रिया कुब्जिका च विश्वदेवीं विषघ्निका ॥ ३७॥ इतरा च तथानन्दा सम्पूज्याश्चादितः प्रिये । सिंहासनं च सम्पूज्य मध्ये वीजन्तु मातृका ॥ ३८ ॥ सदाशिवमहाप्रेतपद्मासनपदं लिखेत् । ऊँऽन्तं नमोऽन्तितं देवि यजेत्सिंहासनं प्रिये ॥ ३९ ॥ सुक्ताच्छत्रशरच्चन्द्रवह्निकाकारमाचरेत् । उशीरक्षिप्तसच्चन्द्रकलाव्यजनयुग्मकम् ॥ ४०॥ प्रान्तमुक्तावलीराजत्स्वर्णादर्शं च पीठकम् । अलङ्कारमयीं पेटीं करण्डं शशिपूरितम् ॥ ४१ ॥