पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता । कर्पूरक्षादभरितचषकं स्वर्णकङ्कतीम् । पुष्पपूर्णकाश्मीरपात्रं च दधतीं क्रमात् ॥ ४२ ॥ ध्यात्वा रामादिकां पश्चाद्देवीमावाहयेत्प्रिये । उपचारैः समभ्यर्च्य तर्पणानि निवेदयेत् ॥४३ ॥ नवाङ्गं दर्शयेद्देवि देहे सुद्राश्च दर्शयेत् । अग्नीशासुखायव्यमध्यदिवंगपूजनम् ॥ ४४ ॥ क्रमेण पुर आरम्य रतिप्रीतिमनोभवाः । त्रिकोणान्तेषु देवेशि तद्बाह्ये वाणदेवताः ॥ ४५ ॥ देवताया दक्षिणे द्वे ऽग्रे वामे एकमग्रतः । अनङ्गाऽनङ्गकुसुमा तथा चानङ्गमेखला ॥ ४६ ॥ अनङ्गमदना देवी सुभगा च भगा तथा । भगसर्पिण्यथो देवि तथा चानङ्गमालिनी ॥ ४७ ॥ पुर-आरभ्य देवेशि प्रादक्षिण्येन पूजयेत् । अष्टकोणेषु तद्बाह्यवसुपत्रेषु चार्चयेत् ॥ १८ ॥ असिताङ्गं तथा ब्राह्मीं रुरुं माहेश्वरीं तथा । चण्डं कौमारिकां चैव क्रोधं तु वैष्णवीं तथा ॥४९॥ उन्मत्तं चैव बाराही तथा चैव क्रपालिनम् | माहेन्द्रीं भीषणं देवीं चामुण्डां च ततः परम् ॥५०॥ संहारभैरव देवि महालक्ष्मीं क्रमाद्यजेत् । युग्मयुग्मप्रभेदेन स्वरैर्देवीं तु भैरवैः ॥ ५१ ॥