पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः पटलः। कामरूपं तथा देवि मलयं च द्वितीयकम् । पठिं कोल्लगिरि पीठं कुलाचलमतः परम् ॥ ५२ ॥ चौहारं चैव देवेशि जालन्धरमतः परम् । उड्यानं देवकोलं च पीठाष्टकामदंयजेत् ॥ ५३ ॥ बहिर्वृत्ते महेशानि सम्पूज्या भैरवादयः । हेतुकं भैरवं त्वाद्यं द्वितीयं त्रिपुरान्तकम् ॥ ५४॥ वेतालमग्निजिह्वं च कालान्तकमतः परम् । कपालिनं चैकपादं भीमरूपमतः परम् ॥ ५५ ॥ मलयं हाटकं चैव पुर आरभ्य पूजयेत् । अध ऊर्ध्वं ततो देवि चतुरस्रक्रमेण तु ॥ ५६ ॥ इन्द्रादयस्ततः पूज्यास्ततस्तु बटुकादयः । वटुकं योगिनी क्षेत्रपालङ्गणपतिं यजेत् ॥ ५७ ॥ पूर्वादिदिक्षु कोणेषु बस्वन्य(?)नुक्रमाद्यजेत् । रुद्रांश्च सर्वभूतांश्च पुनर्देवीं समर्चयेत् ॥ ५८ ॥ वनस्पतिरसोत्पन्नो गन्धाढयो गन्ध उत्तमः । आघ्रयेः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ५९ ॥ एवं मन्त्रत्रिबीजान्ते धूप मन्त्र उदाहृतः । सुप्रकाशो महादीपः सर्वतस्तिमिरापहः ॥ ६ ॥ सबाह्याभ्यन्तरं ज्योतिदीपोऽयं प्रतिगृह्यताम् । तथैव दीपमन्त्रोऽयं शृणु चारार्तिकं प्रिये ॥ ६१ ॥