पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। समस्तचक्रसद्रश्मिमण्डले वर्णरूपिणि । आरार्तिकं गृहाणेदं त्रिपुरे मम सिद्धये ॥ ६२ ॥ आरार्तिकमिदं देवि विद्यान्ते मनुरीरितः । हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् ॥ ६३ ॥ पञ्चधा षड्रसोपेतं गृहाण परमेश्वरि । उपहारमनुर्देवि विद्येयं च मयोरितः ॥ ६४ ॥ यथाशक्ति जपं कुर्य्यान्नित्यहामें समर्चयेत्। पश्चाहुतीस्तु मूलेन षडङ्गानि च होमयेत् ॥ ६५ ॥ नित्यहोमप्रकारोऽयं देवि विघ्नानपोहयेत् । अथान्यत्संप्रवक्ष्यामि सर्वविघ्ननिवृत्तये ॥ ६६॥. अग्निराक्षसवायव्यशिवकोणेषु मन्त्रवित् । त्रिकोणवृत्तभूबिम्बमण्डितानि समालिखेत् ॥ ६७ ॥ मण्डलानि च चत्वारि तत्र पात्राणि संक्षिपेत् । बटुकाय नमो बान्ते गान्ते गणपतिं तथा ॥ ६८ ॥ आदौ बिन्दुद्वयं चैव योगिनाभ्यो नमश्चचरेत् । क्षामन्ते क्षेत्रपालाय नमो मन्त्रचतुष्टयम् ॥ ६९ ॥ एभिर्मन्त्रैरर्घयुक्तैर्मण्डलानि च पूजयेत् । एह्येहि देवीपुत्रान्ते बटुकान्ते च नाथ च ॥ ७० ॥ कपिलान्ते जटाभारभासुसन्ते त्रिनेत्र च । ज्वालामुखं ततः सर्वविघ्नान्नाशय नाशय ।। ७१ ॥