पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः पटलः। 27 सर्वोपचारसहितं yलिं गृह्णपदद्वयम् । वह्निजायान्वितो मन्त्रो बटुकस्य उदाहृतः ॥ ७२ ।। ऊदर्ध्वे ब्रह्माण्डतो बान्ते दिव्यान्ते गगनेति च । तले भूपदमालिख्य तले चैव तु निष्कले ॥७३॥ वा पाताले तले चान्ते सलिलादौ च वा लिखेत् । पवनान्ते तयोर्यत्र कुत्रान्ते च स्थिता इति ॥ ७४ ॥ वा क्षेत्रे चैव पीठोपपीठादिषु समालिखेत् । ततः कृतपदो धूपदीपादि च पदं लिखेत् ॥ ७५ ।। केन प्रीताश्च देवाश्च सदा नः शुभ संलिखेत् । बल्यन्ते विहिताश्चैव पर्णे देवेन्द्र संलिखेत् ॥६॥ वन्द्याश्च यां समालिख्य योगिनीम्योऽग्निवल्लभा । सर्वान्ते योगिनीनां च कवचास्त्राग्निवल्लभा ॥७७॥ योगिनीनामयं मन्त्रः क्षेत्रपालमनुं शृणु । षड्दीर्घस्वरभेदेन क्षकारं भेदयेत्प्रिये ॥ ७८ ॥ कवचं स्थानशब्दान्ते क्षेत्रपालं समालिखेत् । धूपदीपादिसहितं बलिं गृह्ण द्विधा लिखेत् ॥ ७९ ॥ सर्वकामं पूरयाग्निवल्लभा क्षेत्रजो मनुः । गांगींगूंगं समालिख्य गणपान्ते तथा लिखेत् ॥८॥ वरशब्दं द्विधा दान्ते ततः सर्वजनं पदम् । मे वशञ्चानय प्रान्ते ततः सर्वोपचारतः ॥८॥