पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणमूर्तिसंहिता। सहितं च वलिं गृह्ण गृह्ण स्वाहा मनुः प्रिये । गणेशस्य वरारोहे मन्त्रैरपि बलिं हरेत् ॥ ८२ ॥ बटुकस्य च तर्जन्या सहाङ्गुष्ठेन वा प्रिये । वामाङ्गुष्ठानामिकाभ्यां क्षेत्रपालस्य कथ्यते ॥ ८३ ॥ तर्जनीमध्यमानामा योन्याकारेण योजयेत् । वलिदानविधौ मन्त्री मुद्राः संदर्शयेत्क्रमात् ॥ ८४ ॥ स्तुत्वा नत्वा पुनर्देवीं देवीमात्मनि योजयेत् । आत्मविद्याशिवैस्तत्त्वैर्गुरुं सन्तोष्य देवताम् ॥ ८५ ॥ आनन्दसहितो मन्त्री सर्वकामानि साधयेत् ॥ इति दक्षिणामूर्तिसाहितायां त्रिपुरेश्वरीसमाराधन- विधिर्नवमः पटलः। अथ दशमः पटलः। ईश्वर उवाच- महासिंहासनगता विद्येयं त्रिपुरेश्वरी । शिवचन्द्राग्निदीर्घाक्षिबिन्दुनादात्मकं ततः ॥ १ ॥ चन्द्रेण वह्निवामाक्षिबिन्दुनादमयं प्रिये । शक्तिं कलाढ्यमन्त्रे च तुर्य्यबीजमुदाहृतम् ॥ २ ॥