पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। रक्तकुण्डलमुक्तालिपादकां गणभूषिताम् । रत्नमञ्जीरसुभगां रक्तवस्त्रानुलेपनाम् ॥ ५॥ पाशांकुशौ पुस्तकं च दधतीमक्षमालिकाम् । सर्वाङ्गसुन्दरी ध्यायेत्सर्वसम्पत्तिहेतवे ॥ ६ ॥ इति दक्षिणामूर्तिसंहितायां ललिताविधिर्नाम एकादशः पटलः । 1 अथ द्वादशः पटलः। ईश्वर उवाच- केवलं कामबीजं तु कामेशीमनुरुच्यते । कामेश्वरी देवता स्यात्कन्दर्पे बीजशक्तिके ॥ १ ॥ पृथिवी कीलकं प्रोक्तं महावश्यकरा परा । षड्दीर्घस्वरभेदेन षडङ्गानि प्रविन्यसेत् ॥ २ ॥ पूर्वोक्तपञ्चबाणं च पूर्ववद्विन्यसेत्प्रिये । जपाकुसुमसङ्काशां धनुर्बाणधरां स्मरेत् । नानालङ्कारसुभगां मोहयन्तीं जगत्रयम् । अर्कलक्षञ्जपेन्मत्रं वन्धूककुसुमं हुनेत् ॥ ४ ॥ तदशांशेन देवोश पुरश्चारी ततो भवेत् । अथ यन्त्रं प्रवक्ष्यामि त्रैलोक्याकर्षणे क्षमम् ॥५॥ त्रिकोणं चाष्टपत्रं च ततो भूविम्वमालिखेत् ।