पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वादशः पटलः1 मध्ये विदर्भितं बीजं साध्यसाधकलाञ्छितम् ॥६॥ कोणप्रयाणां विद्यां च पृथग्वसुदलेषु च । दलाग्रकेषु संलिख्य चतुरस्रेष्वधो लिखेत् ॥७॥ त्रैलोक्यमोहनं यन्त्रं त्रिषु लोकेषु दुर्लभम् । मध्ये पुष्पं विनिःक्षिप्य ततो यागार्चनं चरेत् ॥८॥ मोहिनी क्षोभिणी चैव वशिनी स्तम्भिनी तथा । आकर्षिणी द्राविणी च तथैवाह्लादिनी क्रमात् ॥९॥ क्लिन्नवज्रादिना चैव दिक्षु मध्ये प्रपूजयेत् । ततः सिंहासनं जप्त्वा देवीमावाहयेत्प्रिये ॥१०॥ उपचारैः समाराध्य गुप्तमुद्रां प्रदर्शयेत् । अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् ॥ ११ ॥ त्रिपुरेशी च वर्गानामर्चनं परमेश्वरी । अनङ्गरूपिण्यानङ्गमदनाऽनङ्गमन्मथा ॥ १२ ॥ अनङ्गकुसुमा तावदनङ्गमदनातुरा । अनङ्गरूपिका मध्ये त्वनङ्गकुसुमा प्रिये ॥ १३ ॥ अनङ्गशिशिरा चैव तथा चानङ्गमेखला । अनङ्गदीपिकामष्टदलेषु क्रमतो यजेत् ॥ १४ ॥ इन्द्रादयश्व सम्पूज्या पुनराराधयोच्छिवाम् । इति दक्षिणामूर्तिसंहितायां कामेश्वरीपूजाविधि- द्वादशः पटलः ॥ १५ ॥