पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंदिया। अथ त्रयोदशः पटलः। ईश्वर उवाच- रक्तनेत्रां प्रवक्ष्मामि सर्वकामफलप्रदाम् । त्रिपुरेशीं समालिख्य वाग्भवं शशिमण्डितम् ॥१॥ वीजाग्निमण्डितं कामवीजं चान्त्यकमान्न्यसेत् । रक्तनेत्रा महाविद्या त्रिपुरा परमेश्वरी ॥ २ ॥ ललितावदिमां ध्यायेल्ललितात्मकुमारिकाम् । इयं तु यौवनप्रौढा पीनोन्नतघनस्तनी ॥ ३ ॥ नितम्विनी क्षाममध्या शान्तवक्त्रसुलोचना । पूजान्यासादिकं सर्व त्रिपुरेशीव सुन्दरी ॥ ४ ॥ इति दक्षिणामूर्तिसहितायां रक्तनेत्रापूजन- विधिः त्रयोदशः पटलः ॥ १३ ॥ अथ चतुर्दशः पटलः । ईश्वर उवाच- अथ वक्ष्ये महादेवि दक्षिणाम्नायदैवताम् । एतन्मध्यगतं क्लिन्ने कामवीजं ततो लिखेत् ॥१॥ मद्रवे कुले चोक्त्वा त्रिपुरेशानीति प्रिय। वह्निमदद्रवेणेयं दक्षिणाम्नायदेवता ॥ २ ॥